श्रीपराशर उवाच अनमित्रस्य पुत्र: शिनिर्नामाभवत्॥ १॥ तस्यापि सत्यक: सत्यकात्सात्यकिर्युयुधानापरनामा॥ २॥