द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत्। शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रत:। पुष्कराधिपतिं चक्रे सवनं चापि स प्रभु:॥ १४॥