तस्माच्च सूक्ष्मादिविशेषणाना- मगोचरे यत्परमात्मरूपम्। किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय॥ ७५॥