ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्। रथर्षभो राक्षसराजसूनु- स्तमिन्द्रजिद् वाक्यमिदं बभाषे॥ ३॥