विष्णो: स्थानं महेन्द्रस्य स्थानं चैव विवस्वत:।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च॥ १८॥
धातुर्विधातु: स्थानं च वायो: स्थानं तथैव च।
स्थानं च पाशहस्तस्य वरुणस्य महात्मन:॥ १९॥
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च।
स्थानं च नागराजस्य गरुडस्थानमेव च॥ २०॥
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति।
अनुवाद
क्रमश: भगवान विष्णु, इंद्र, सूर्य, चंद्रमा, भग, कुबेर, धाता, विधाता, वायु, पाशधारी महात्मा वरुण, गायत्री, वसु, नागराज अनंत, गरुड़, कार्तिकेय और धर्मराज के अलग-अलग स्थानों का निरीक्षण किया।