भूयश्चोवाच मतिमान् माधवो धर्मनन्दनम्॥ २६॥ युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि। अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मन:॥ २७॥