कृत्वा तत् कर्म बीभत्सुरुग्रमुग्रपराक्रम:। विव्याध शकुनिं भूय: पञ्चभिर्नतपर्वभि:॥ ३५॥ अताडयदुलूकं च त्रिभिरेव तथा शरै:।