सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भव:॥ ३६॥ प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत। जिघांसुर्धर्मतनयं तव पुत्रहिते रत:॥ ३७॥