वारवास्यायवाहाश्च चक्राश्चक्रातय: शका:। विदेहा मगधा: स्वक्षा मलजा विजयास्तथा॥ ४५॥ अङ्गा वङ्गा: कलिङ्गाश्च यकृल्लोमान एव च। मल्ला: सुदेष्णा: प्रह्लादा माहिका: शशिकास्तथा॥ ४६॥ बाह्लिका वाटधानाश्च आभीरा: कालतोयका:। अपरान्ता: परान्ताश्च पञ्चालाश्चर्ममण्डला:॥ ४७॥ अटवीशिखराश्चैव मेरुभूताश्च मारिष। उपावृत्तानुपावृत्ता: स्वराष्ट्रा: केकयास्तथा॥ ४८॥ कुन्दापरान्ता माहेया: कक्षा: सामुद्रनिष्कुटा:। अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च॥ ४९॥ बहिर्गिर्याङ्गमलजा मगधा मानवर्जका:। समन्तरा: प्रावृषेया भार्गवाश्च जनाधिप॥ ५०॥