तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गला:। शूरसेना: पुलिन्दाश्च बोधा मालास्तथैव च॥ ३९॥ मत्स्या: कुशल्या: सौशल्या: कुन्तय: कान्तिकोसला:। चेदिमत्स्यकरूषाश्च भोजा: सिन्धुपुलिन्दका:॥ ४०॥ उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलै: सह। पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधरा:॥ ४१॥ गोधामद्रकलिङ्गाश्च काशयोऽपरकाशय:। जठरा: कुक्कुराश्चैव सदशार्णाश्च भारत॥ ४२॥ कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तय:। गोमन्ता मण्डका: सण्डा विदर्भा रूपवाहिका:॥ ४३॥ अश्मका: पाण्डुराष्ट्राश्च गोपराष्ट्रा: करीतय:। अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्॥ ४४॥