सदा निरामयां कृष्णां मन्दगां मदवाहिनीम्। ब्राह्मणीं च महागौरीं दुर्गामपि च भारत॥ ३३॥ चित्रोपलां चित्ररथां मञ्जुलां वाहिनीं तथा। मन्दाकिनीं वैतरणीं कोषां चापि महानदीम्॥ ३४॥ शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्। लोहित्यां करतोयां च तथैव वृषकाह्वयाम्॥ ३५॥ कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्। मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत॥ ३६॥