नीवारामहितां चापि सुप्रयोगां जनाधिप। पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम्॥ २१॥ पूर्वाभिरामां वीरां च भीमामोघवतीं तथा। पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम्॥ २२॥ करीषिणीमसिक्नीं च कुशचीरां महानदीम्। मकरीं प्रवरां मेनां हेमां घृतवतीं तथा॥ २३॥ पुरावतीमनुष्णां च शैब्यां कापीं च भारत। सदानीरामधृष्यां च कुशधारां महानदीम्॥ २४॥