शल्य उवाच सम्पत्स्यत्येष ते काम: कुन्तीपुत्र यथेप्सितम्। गच्छ युध्यस्व विश्रब्ध: प्रतिजाने वचस्तव॥ ८७॥