उत्तङ्क उवाच भवता रक्षणं कार्यं तत् तावत् कर्तुमर्हसि। निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद् भवेमहि॥ ११॥