अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते॥ २६॥ पितरस्तस्य देवाश्च अग्नयश्च तथैव हि। निराशा: प्रतिगच्छन्ति अतिथेरप्रतिग्रहात्॥ २७॥