यथा — अग्रे सानुग्रहं पश्यन्न् अग्रजं व्यग्र-मानसः । गदः पदारविन्दे’स्य विदधे दण्डवन्-नतिम् ॥३.२.१५७॥