अथ रागानुगा — विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु । रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥१.२.२७०॥