अङ्गानि विविधान्य् एव स्युः पूजा-परिचर्ययोः । न तानि लिखितान्य् अत्र ग्रन्थ-बाहुल्य-भीतितः ॥१.२.१४३ ॥